|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.91. अध्यायः 091
Mahabharata - Sabha Parva - Chapter Topics
द्रौपदीवचनम्॥ 1॥ युधिष्ठिरेणैव द्रौपदीप्रश्नस्योत्तरं वक्तव्यमिति भीष्मवचनम्॥ 2॥
Mahabharata - Sabha Parva - Chapter Text
द्रौपद्युवाच॥
पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम्।
विह्वलाऽस्मि कृताऽनेन कर्षता बलिना बलात्॥ 2-91-1(15012)
अभिवादं करोम्येषां कुरूणां कुरुसंसदि।
न मे स्यादपराधोऽयं तदिदं न कृतं मया॥
वैशम्पायन उवाच॥ 2-91-2(15013)
सा तेन च समाधूता दुःखेन च तपस्विनी।
पतिता विललापेदं सभायामतथोचिता॥ 2-91-3(15014)
द्रौपद्युवाच। 2-91-4x(1649)
स्वयंवरे यास्मि नृपैदृष्टा रङ्गे समागतैः।
न दृष्टपूर्वा चान्यत्र साऽहमद्य सभां गता॥ 2-91-4(15015)
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे।
साऽहमद्य सभामध्ये दृष्टास्मि जनसंसदि॥ 2-91-5(15016)
यां न मृष्यन्ति वातेन स्पृश्यमानां गृहे पुरा।
स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दूरात्मना॥ 2-91-6(15017)
मृष्यन्ति कुरवश्चेमे मन्ये कालस्य पर्ययम्।
स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम्॥ 2-91-7(15018)
किंन्वतः कृपणं भूयो यदहं स्त्री सती शुभा।
सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम्॥ 2-91-8(15019)
धर्म्यं स्त्रियं सभां पूर्वे न नयन्तीति नः श्रुतम्।
स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः॥ 2-91-9(15020)
कथं हि भार्या पाण्डुनां पार्षतस्य स्वसा सती।
वासुदेवस्य च सखी पार्थिवानां सभामियाम्॥ 2-91-10(15021)
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम्।
ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः। 2-91-11(15022)
अयं मां सुदृढं क्षुद्रः कौरवाणां यशोहरः.
क्लिश्नाति नाहं तत्सोढुं क्षुद्रः कौरवाणां यशोहरः। 2-91-12(15023)
जितां वाऽप्यजितां वापि मन्यध्वं मां यथा नृपाः।
तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः॥ 2-91-13(15024)
भीष्म उवाच॥ 2-91-14x(1650)
उक्तवानस्मि कल्याणि धर्मस्य परमा गतिः।
लोके न शक्यते ज्ञातुमपि विज्ञैर्महात्मभिः॥ 2-91-14(15025)
बलवांश्च यथा धर्मं लोके पश्यति पुरुषः॥
स धर्मो धर्मवेलायां भवत्यभिहतः परः॥ 2-91-15(15026)
न विवेक्तुं च ते प्रश्नमिमं शक्नोमि निश्चयात्।
सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात्॥ 2-91-16(15027)
नूनमन्तः कुलस्यास्य भविता न चिरादिव।
तथा हि कुरवः सर्वे लोभमोहपरायणाः॥ 2-91-17(15028)
कुलेषु जाताः कल्याणि व्यसनैराहता भृशम्।
धर्म्यान्मार्गान्न च्यवन्ते येषां नस्त्वं बधूः स्थिता॥ 2-91-18(15029)
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम्।
यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे॥ 2-91-19(15030)
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः।
शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः॥ 2-91-20(15031)
युधिष्ठिरस्तु प्रश्नोऽस्मिन्प्रमाणमिति मे मतिः।
अजितां वा जितां वेति स्वयं व्याख्यातुमर्हति॥ ॥ 2-91-21(15032)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि एकनवतितमोऽध्यायः॥91 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|